Showing posts with label stotras. Show all posts
Showing posts with label stotras. Show all posts

Monday, 16 December 2013

श्री सप्तश्लोकी गीता

ओमित्येकाक्षरं        ब्रम्ह             व्याहरन्               मामनुस्मरन्
   य: प्रयाति              त्यजन् देहं          स  याति परमां         गतिम् I १ I 

स्थाने   हषीकेश     तव    प्रकीर्त्या,जगत प्रहृष्यत्यनुरज्यते च।
रक्षांसि भीतानि दिशो द्रवन्ति,सर्वे नमस्यन्ति च सिद्धसंघा:।२ ।

 सर्वत: पाणिपादम तत्सर्वतोSक्षिशिरोमुखम।
 सर्वत: श्रुतिमल्लोके सर्वमावृत्य तिष्ठति।३ ।

कविं पुराणमनुशासितारमणोरणीयांसमनुस्मरेद्य:।
सर्वस्य धातारमचिन्त्यरूपमादित्यवर्णं तमस: परस्तात।४ ।

उर्ध्वमूलमध: शाखमश्वत्थं प्राहुरव्ययम।
छन्दांसि  यस्य  पर्णानि  यस्तं वेद  स वेदवित।५ ।

 सर्वस्य चाहं हृदि संनिविष्टोमत्त: स्मृतिर्ज्ञानमपोहनं च।
वेदैश्च सर्वैरहमेव वेद्योवेदान्तकृद्वेदविदेव चाहम।६ ।

 मन्मना भव मद्भक्तो  मद्याजी मां नमस्कुरु।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायण:।७ ।


















श्री सप्तश्लोकी दुर्गा

                                       शिव उवाच

                   देवि त्व्ं  भक्तसुलभे सर्वकार्यविधायिनी
                   कलौ  हि कार्यसिद्धयर्थ मुपायं ब्रूहि यत्नत:

                                       देव्युवाच

                  श्रृणु देव प्रवक्ष्यामि  कलौ  सर्वेष्टसाधनम्
                  मया तवैव स्नेहेनाप्यम्बास्तुति: प्रकाश्यते

विनियोग-
 ॐ अस्य श्रीदुर्गासप्त्श्लोकिस्तोत्रमन्त्रस्य नारायण
ऋषि:, अनुष्टुप छन्दः श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो
देवता : श्रीदुर्गाप्रीत्यर्थं  सप्त्श्लोकिदुर्गापाठे विनियोगः I 

ॐ ज्ञानिनामपि चेतांसि देवी भगवती हि सा
बलादाकृष्य  मोहाय   महामाया   प्रयच्छति I १ I 

दुर्गे स्मृता हरसि भीतिमशेषजन्तोः
स्वस्थैः स्मृता मतिमतीव शुभां ददासि । २ I 

दारिद्रयदुःखभयहारिणि का त्वदन्या
सर्वोपकारकरणाय सद्रारर्द्र   चित्ता I ३ I 

सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते I ४ I 

शरणागतदीनार्तपरित्राणपरायणे ।
सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु तेI ५ I 

सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।
भयेभ्यस्त्राहि नो देवि दुर्गे देवी नमोऽस्तु तेI ६ I 

रोगानशेषानपहंसि तुष्टा ददासि  तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति I ७ I 

सर्वाबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ।
एवमेव त्वया कार्यमस्मद्वैरि विनाशनम् I ८ I 

Tuesday, 10 December 2013

श्री संकट नाशन गणेश स्तोत्रम्


                               श्री संकट नाशन गणेश स्तोत्रम्
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकं I 
भक्तावासं  स्मरेन्नित्यमायुश्कामार्थसिद्धयै II१ II 

प्रथमं वक्रतुण्ड च एकदन्तं द्वितीयं |  
तृतीयं कृष्णपिंगाक्षम गजवक्त्रं चतुर्थकम II २ II 

लम्बोदरं पंच्च्मं च षष्ठं विकटमेव च I
सप्तमं विघ्नराजेंद्र धूम्रवर्ण तथाष्टमम II३ II 

नवमं भालचन्द्र च दशमं तु विनायकं I
एकादशं गणपतिं द्वादशं तु गजाननम II४ II 

दवाद्शैतानि नामानि त्रिसन्ध्यं य :  पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिकरः परम् ॥ ५ II 

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ ६॥ 

जपेद गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ ७॥

अष्टेभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ ८॥ 




Saturday, 7 December 2013

श्री सद्-गुरु-स्तोत्रम्

गुरुर्ब्रम्हा गुरुर्विष्णु गुरुर्देवो महेश्वर:I
 गुरुरेव परं ब्रम्ह, तस्मै श्रीगुरवे नम: ||१||

अखण्ड मंण्डलाकारं व्याप्तं येन चराचरं |
 तत पदं दर्शितं येन, तस्मै श्रीगुरवे नम: ||२||

अज्ञान तिमिरान्धस्य ज्ञानाजजन शलाकया
 चक्षुरून्मीलितं येन  तस्मै श्रीगुरवे नम: ||३||

स्थावरं जङ्गमं व्याप्तं येन कृत्स्नं चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥४॥

चिद्रूपेण परिव्याप्तं त्रैलोक्यं सचराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥५|
|
सर्वश्रुतिशिरोरत्नसमुद्भासितमूर्तये । 
वेदान्ताम्बूजसूर्याय तस्मै श्रीगुरवे नमः ॥६॥

चैतन्यः शाश्वतः शान्तो व्योमातीतोनिरञ्जनः ।
बिन्दूनादकलातीतस्तस्मै श्रीगुरवे नमः ॥७॥

ज्ञानशक्तिसमारूढस्तत्त्वमालाविभूषितः ।
भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥८॥

अनेकजन्मसम्प्राप्तकर्मेन्धनविदाहिने ।
आत्मञ्जानाग्निदानेन तस्मै श्रीगुरवे नमः ॥९॥

शोषणं भवसिन्धोश्च प्रापणं सारसम्पदः ।
यस्य पादोदकं सम्यक् तस्मै श्रीगुरवे नमः ॥१०॥

न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः।
तत्त्वज्ञानात् परं नास्ति तस्मै श्रीगुरवे नमः ॥११॥

मन्नाथः श्रीजगन्नाथो मद्गुरुः श्रीजगद्गुरुः ।
मदात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥१२॥

गुरुरादिरनादिश्च गुरुः परमदैवतम् । 
गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ॥१३॥

ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिम्
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् 
एकं नित्यं विमलमचलं सर्वधीसाक्षीभूतम्
भावातीतं त्रिगुणरहितं सद्गुरुंतं नमामि ॥१४॥

|| श्री-विश्वसार-तन्त्रे-श्री-सद्गुरु-स्तोत्रम् ||